अयोध्याकाण्डम्
Chapter 13 / सर्गः १३
Slōka 1 / श्लोक १
अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।
ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥
Slōka 2 / श्लोक २
अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी ।
पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥
Slōka 3 / श्लोक ३
त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।
मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥
Slōka 4 / श्लोक ४
एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥
Slōka 5 / श्लोक ५
म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।
हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥
Slōka 6 / श्लोक ६
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥
Slōka 7 / श्लोक ७
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।
यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥
Slōka 8 / श्लोक ८
अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥
Slōka 9 / श्लोक ९
शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥
Slōka 10 / श्लोक १०
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥
Slōka 11 / श्लोक ११
सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥
Slōka 12 / श्लोक १२
यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥
Slōka 13 / श्लोक १३
नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।
किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥
Slōka 14 / श्लोक १४
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।
तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥
Slōka 15 / श्लोक १५
अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।
सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥
Slōka 16 / श्लोक १६
राज्ञो विलपमानस्य न व्यभासत शर्वरी ।
तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥
Slōka 17 / श्लोक १७
विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।
न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥
Slōka 18 / श्लोक १८
अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।
अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥
Slōka 19 / श्लोक १९
न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।
एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥
Slōka 20 / श्लोक २०
प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।
साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥
Slōka 21 / श्लोक २१
प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।
शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥
Slōka 22 / श्लोक २२
कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।
प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥
Slōka 23 / श्लोक २३
लभतामसितापाङ्गे यशः परमवाप्नुहि ।
मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥
Slōka 24 / श्लोक २४
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।
विशुद्ध भावस्य सु दुष्ट भावा ।दीनस्य ताम्राश्रुकलस्य राज्ञः ।श्रुत्वा विचित्रम् करुणम् विलापम् ।भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥
Slōka 25 / श्लोक २५
ततः स राजा पुनर् एव मूर्चितः ।
प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।समीक्ष्य पुत्रस्य विवासनम् प्रति ।क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥
Slōka 26 / श्लोक २६
इतीव राज्ञो व्य्थितस्य सा निशा ।
जगाम घोरं स्वसतो मनस्विनः ।विबोध्यमानः प्रतिबोधनं तदा ।निवारयामास स राजसत्तमः ॥२-१३-२६॥