Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 12 / सर्गः १२

Slōka 1 / श्लोक १

राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। ७.१२.१ ॥

Slōka 2 / श्लोक २

स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। ७.१२.२ ॥

Slōka 3 / श्लोक ३

अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.३ ॥

Slōka 4 / श्लोक ४

कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ।अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.४ ॥

Slōka 5 / श्लोक ५

मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.५ ॥

Slōka 6 / श्लोक ६

हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.६ ॥

Slōka 7 / श्लोक ७

तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।
सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.७ ॥

Slōka 8 / श्लोक ८

वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।
वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.८ ॥

Slōka 9 / श्लोक ९

तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।
। ७.१२.९ ॥

Slōka 10 / श्लोक १०

तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.१० ॥

Slōka 11 / श्लोक ११

भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.११ ॥

Slōka 12 / श्लोक १२

कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।
पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.१२ ॥

Slōka 13 / श्लोक १३

मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।
एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। ७.१२.१३ ॥

Slōka 14 / श्लोक १४

त्वामिदानीं कथं तात जानीयां को भवानिति ।
एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। ७.१२.१४ ॥

Slōka 15 / श्लोक १५

अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। ७.१२.१५ ॥

Slōka 16 / श्लोक १६

एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। ७.१२.१६ ॥

Slōka 17 / श्लोक १७

करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। ७.१२.१७ ॥

Slōka 18 / श्लोक १८

इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता ।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। ७.१२.१८ ॥

Slōka 19 / श्लोक १९

बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत ।
प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। ७.१२.१९ ॥

Slōka 20 / श्लोक २०

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। ७.१२.२० ॥

Slōka 21 / श्लोक २१

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।
परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। ७.१२.२१ ॥

Slōka 22 / श्लोक २२

एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। ७.१२.२२ ॥

Slōka 23 / श्लोक २३

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.२३ ॥

Slōka 24 / श्लोक २४

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.२४ ॥

Slōka 25 / श्लोक २५

तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ।
सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.२५ ॥

Slōka 26 / श्लोक २६

मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।
सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.२६ ॥

Slōka 27 / श्लोक २७

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।
स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.२७ ॥

Slōka 28 / श्लोक २८

ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.२८ ॥

Slōka 29 / श्लोक २९

जातमात्रेण हि पुरा तेन रावणसूनुना ।
रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.२९ ॥

Slōka 30 / श्लोक ३०

जडीकृता च सा लङ्का तस्य नादेन राघव ।
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.३० ॥

Slōka 31 / श्लोक ३१

सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे ।
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.३१ ॥

Slōka 32 / श्लोक ३२

मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।
। ७.१२.३२ ।।