उत्तरकाण्डम्डम्
Chapter 97 / सर्गः ९७
Slōka 1 / श्लोक १
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। ७.९७.१ ॥
Slōka 2 / श्लोक २
एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। ७.९७.२ ॥
Slōka 3 / श्लोक ३
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। ७.९७.३ ॥
Slōka 4 / श्लोक ४
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। ७.९७.४ ॥
Slōka 5 / श्लोक ५
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ७.९७.५ ॥
Slōka 6 / श्लोक ६
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।
सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। ७.९७.६ ॥
Slōka 7 / श्लोक ७
पितामहं पुरस्कृत्य सर्व एव समागताः ।
। ७.९७.७ ॥
Slōka 8 / श्लोक ८
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। ७.९७.८ ॥
Slōka 9 / श्लोक ९
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।
नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। ७.९७.९ ॥
Slōka 10 / श्लोक १०
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।
प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। ७.९७.१० ॥
Slōka 11 / श्लोक ११
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।
। ७.९७.११ ॥
Slōka 12 / श्लोक १२
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। ७.९७.१२ ॥
Slōka 13 / श्लोक १३
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। ७.९७.१३ ॥
Slōka 14 / श्लोक १४
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। ७.९७.१४ ॥
Slōka 15 / श्लोक १५
यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१५ ॥
Slōka 16 / श्लोक १६
मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१६ ॥
Slōka 17 / श्लोक १७
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१७ ॥
Slōka 18 / श्लोक १८
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। ७.९७.१८ ॥
Slōka 19 / श्लोक १९
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। ७.९७.१९ ॥
Slōka 20 / श्लोक २०
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। ७.९७.२० ॥
Slōka 21 / श्लोक २१
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। ७.९७.२१ ॥
Slōka 22 / श्लोक २२
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। ७.९७.२२ ॥
Slōka 23 / श्लोक २३
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। ७.९७.२३ ॥
Slōka 24 / श्लोक २४
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। ७.९७.२४ ॥
Slōka 25 / श्लोक २५
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। ७.९७.२५ ॥
Slōka 26 / श्लोक २६
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। ७.९७.२६ ॥
Slōka 27 / श्लोक २७
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।
तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। ७.९७.२७ ।।