उत्तरकाण्डम्डम्
Chapter 103 / सर्गः १०३
Slōka 1 / श्लोक १
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ।। ७.१०३.१ ॥
Slōka 2 / श्लोक २
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।
मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ।। ७.१०३.२ ॥
Slōka 3 / श्लोक ३
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल ।। ७.१०३.३ ॥
Slōka 4 / श्लोक ४
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।
न्यवेदयत रामाय तापसं तं समागतम् ।। ७.१०३.४ ॥
Slōka 5 / श्लोक ५
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ।। ७.१०३.५ ॥
Slōka 6 / श्लोक ६
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ।। ७.१०३.६ ॥
Slōka 7 / श्लोक ७
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ।। ७.१०३.७ ॥
Slōka 8 / श्लोक ८
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।। ७.१०३.८ ॥
Slōka 9 / श्लोक ९
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ।। ७.१०३.९ ॥
Slōka 10 / श्लोक १०
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ।। ७.१०३.१० ॥
Slōka 11 / श्लोक ११
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ।। ७.१०३.११ ॥
Slōka 12 / श्लोक १२
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। ७.१०३.१२ ॥
Slōka 13 / श्लोक १३
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ।। ७.१०३.१३ ॥
Slōka 14 / श्लोक १४
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ।। ७.१०३.१४ ॥
Slōka 15 / श्लोक १५
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।। ७.१०३.१५ ॥
Slōka 16 / श्लोक १६
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। ७.१०३.१६ ॥
Slōka 17 / श्लोक १७
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।। ७.१०३.१७ ।।