Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 67 / सर्गः ६७

Slōka 1 / श्लोक १

एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ।। ५.६७.१ ।।।।

Slōka 2 / श्लोक २

इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। ५.६७.२ ।।।।

Slōka 3 / श्लोक ३

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। ५.६७.३ ।।।।

Slōka 4 / श्लोक ४

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। ५.६७.४ ।।।।

Slōka 5 / श्लोक ५

पुनः पुनरुपागम्य विरराद भृशं किल ।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। ५.६७.५ ।।।।

Slōka 6 / श्लोक ६

वायसेन च तेनैव सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। ५.६७.६ ।।।।

Slōka 7 / श्लोक ७

तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। ५.६७.७ ।।।।

Slōka 8 / श्लोक ८

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.६७.८ ।।।।

Slōka 9 / श्लोक ९

निरीक्षमाणः सहसा वायसं समवैक्षथाः ।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। ५.६७.९ ।।।।

Slōka 10 / श्लोक १०

सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। ५.६७.१० ।।।।

Slōka 11 / श्लोक ११

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। ५.६७.११ ।।।।

Slōka 12 / श्लोक १२

स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। ५.६७.१२ ।।।।

Slōka 13 / श्लोक १३

क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। ५.६७.१३ ।।।।

Slōka 14 / श्लोक १४

स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।
त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। ५.६७.१४ ।।।।

Slōka 15 / श्लोक १५

पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ५.६७.१५ ।।।।

Slōka 16 / श्लोक १६

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।
। ५.६७.१६ ।।।।

Slōka 17 / श्लोक १७

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। ५.६७.१७ ।।।।

Slōka 18 / श्लोक १८

राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। ५.६७.१८ ।।।।

Slōka 19 / श्लोक १९

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.६७.१९ ।।।।

Slōka 20 / श्लोक २०

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।
न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। ५.६७.२० ।।।।

Slōka 21 / श्लोक २१

तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। ५.६७.२१ ।।।।

Slōka 22 / श्लोक २२

भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।
स किमर्थं नरवरो न मां रक्षति राघवः ।। ५.६७.२२ ।।।।

Slōka 23 / श्लोक २३

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.६७.२३ ।।।।

Slōka 24 / श्लोक २४

ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। ५.६७.२४ ।।।।

Slōka 25 / श्लोक २५

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। ५.६७.२५ ।।।।

Slōka 26 / श्लोक २६

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.६७.२६ ।।।।

Slōka 27 / श्लोक २७

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।
इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। ५.६७.२७ ।।।।

Slōka 28 / श्लोक २८

तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.६७.२८ ।।।।

Slōka 29 / श्लोक २९

हत्वा च समरे रौद्र रावण सहबान्धवम् ।
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। ५.६७.२९ ।।।।

Slōka 30 / श्लोक ३०

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। ५.६७.३० ।।।।

Slōka 31 / श्लोक ३१

सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। ५.६७.३१ ।।।।

Slōka 32 / श्लोक ३२

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।
शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। ५.६७.३२ ।।।।

Slōka 33 / श्लोक ३३

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।
विवर्धमानं च हि मामुवाच जनकात्मजा ।। ५.६७.३३ ।।।।

Slōka 34 / श्लोक ३४

अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। ५.६७.३४ ।।।।

Slōka 35 / श्लोक ३५

हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। ५.६७.३५ ।।।।

Slōka 36 / श्लोक ३६

यथा च स महाबाहुर्मां तारयति राघवः ।
असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.६७.३६ ।।।।

Slōka 37 / श्लोक ३७

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.६७.३७ ।।।।

Slōka 38 / श्लोक ३८

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।। ५.६७.३८ ।।