युद्धकाण्डम्
Chapter 11 / सर्गः ११
Slōka 1 / श्लोक १
स बभुव कृशो राजा मैथिलीकाममोहितः ।
असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥।।
Slōka 2 / श्लोक २
अतीतसमये काले तस्मिन्वे युधि रावणः ।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥।।
Slōka 3 / श्लोक ३
स हेमजालविततम् मणिविद्रुमभूषितम् ।
उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥।।
Slōka 4 / श्लोक ४
तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।
प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥।।
Slōka 5 / श्लोक ५
असिचर्मधरा योधाः सर्वायुधधरास्ततः ।
राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥।।
Slōka 6 / श्लोक ६
नानाविकृतवेषाश्च नानाभूषणभूषिताः ।
पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥।।
Slōka 7 / श्लोक ७
रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।
अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥।।
Slōka 8 / श्लोक ८
गदापरिघहस्ताश्च शक्तितोमरपाणयः ।
परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥।।
Slōka 9 / श्लोक ९
ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥।।
Slōka 10 / श्लोक १०
स नेमिघोषेण महान्सहसाभिनिनादयन् ।
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥।।
Slōka 11 / श्लोक ११
विमलम् चातपत्रम् च पगृहीतमशोभत ।
पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥।।
Slōka 12 / श्लोक १२
हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥।।
Slōka 13 / श्लोक १३
ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।
राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥।।
Slōka 14 / श्लोक १४
राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।
अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥।।
Slōka 15 / श्लोक १५
सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।
विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥।।
Slōka 16 / श्लोक १६
ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।
प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥।।
Slōka 17 / श्लोक १७
तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।
महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥।।
Slōka 18 / श्लोक १८
ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।
समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥।।
Slōka 19 / श्लोक १९
कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।
राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥।।
Slōka 20 / श्लोक २०
अनुगेहमवस्थय विहारशयनेषु च ।
उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥।।
Slōka 21 / श्लोक २१
ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।
नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥।।
Slōka 22 / श्लोक २२
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥।।
Slōka 23 / श्लोक २३
ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥।।
Slōka 24 / श्लोक २४
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥।।
Slōka 25 / श्लोक २५
ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।
यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥।।
Slōka 26 / श्लोक २६
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥।।
Slōka 27 / श्लोक २७
समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।
सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥।।
Slōka 28 / श्लोक २८
ततो महात्मा विपुलम् सुयुग्यम् ।
रथम् वरम् हेमविचित्रिताङ्गम् ।शुभम् समास्थाय ययौ यशस्वी ।विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥।।
Slōka 29 / श्लोक २९
स पूर्वजायावरजः शशम्स ।
ना माथ पश्चाच्चरणौ ववन्दे ।शुकः प्रहस्तश्च तथैव तेभ्यो ।ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥।।
Slōka 30 / श्लोक ३०
सुवर्णनानामणिभुषणानाम् ।
सुवाससाम् सम्सदि राक्षसानाम् ।तेषाम् परार्थ्यगुरुचन्दनानाम् ।स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥।।
Slōka 31 / श्लोक ३१
न चुक्रुशुर्नानृतमाह कश्चि ।
त्सभासदो नापि जजल्पुरुच्चैः ।सम्सिद्धार्थः सर्व एवोग्रवीर्या ।भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥।।
Slōka 32 / श्लोक ३२
स रावणः शस्त्रभृताम् मनस्विनाम् ।
महाबलानाम् समितौ मनस्वी ।तप्याम् सभायाम् प्रभया चकाशे ।मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥