सुन्दरकाण्डम्
Chapter 60 / सर्गः ६०
Slōka 1 / श्लोक १
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।
। ५.६०.१ ।।।।
Slōka 2 / श्लोक २
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। ५.६०.२ ।।।।
Slōka 3 / श्लोक ३
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। ५.६०.३ ।।।।
Slōka 4 / श्लोक ४
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। ५.६०.४ ।।।।
Slōka 5 / श्लोक ५
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। ५.६०.५ ।।।।
Slōka 6 / श्लोक ६
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। ५.६०.६ ।।।।
Slōka 7 / श्लोक ७
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ।। ५.६०.७ ।।