सुन्दरकाण्डम्
Chapter 46 / सर्गः ४६
Slōka 1 / श्लोक १
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। ५.४६.१।।।।
Slōka 2 / श्लोक २
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। ५.४६.२।।।।
Slōka 3 / श्लोक ३
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। ५.४६.३।।।।
Slōka 4 / श्लोक ४
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। ५.४६.४।।।।
Slōka 5 / श्लोक ५
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।
कर्म चापि समाधेयं देशकालविरोधिनम् ।। ५.४६.५।।।।
Slōka 6 / श्लोक ६
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।। ५.४६.६।।।।
Slōka 7 / श्लोक ७
सनागयक्षगन्धर्वा देवासुरमहर्षयः ।
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।। ५.४६.७।।।।
Slōka 8 / श्लोक ८
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।। ५.४६.८।।।।
Slōka 9 / श्लोक ९
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।। ५.४६.९।।।।
Slōka 10 / श्लोक १०
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।। ५.४६.१०।।।।
Slōka 11 / श्लोक ११
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।
न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।। ५.४६.११।।।।
Slōka 12 / श्लोक १२
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।। ५.४६.१२।।।।
Slōka 13 / श्लोक १३
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।। ५.४६.१३।।।।
Slōka 14 / श्लोक १४
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।। ५.४६.१४।।।।
Slōka 15 / श्लोक १५
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।
समुत्पेतुर्महावेगा हुताशसमतेजसः ।। ५.४६.१५।।।।
Slōka 16 / श्लोक १६
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।
श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।। ५.४६.१६।।।।
Slōka 17 / श्लोक १७
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।। ५.४६.१७।।।।
Slōka 18 / श्लोक १८
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।
महामतिं महावेगं महाकायं महाबलम् ।। ५.४६.१८।।।।
Slōka 19 / श्लोक १९
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४६.१९।।।।
Slōka 20 / श्लोक २०
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।। ५.४६.२०।।।।
Slōka 21 / श्लोक २१
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।। ५.४६.२१।।।।
Slōka 22 / श्लोक २२
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।
किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।। ५.४६.२२।।।।
Slōka 23 / श्लोक २३
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।। ५.४६.२३।।।।
Slōka 24 / श्लोक २४
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।
चकार कदनं भूयो व्यवर्धत च वेगवान् ।। ५.४६.२४।।।।
Slōka 25 / श्लोक २५
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।
निपपात महवेगो विद्युद्राशिर्गिराविव ।। ५.४६.२५।।।।
Slōka 26 / श्लोक २६
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।। ५.४६.२६।।।।
Slōka 27 / श्लोक २७
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।। ५.४६.२७।।।।
Slōka 28 / श्लोक २८
स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।। ५.४६.२८।।।।
Slōka 29 / श्लोक २९
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। ५.४६.२९।।।।
Slōka 30 / श्लोक ३०
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।। ५.४६.३०।।।।
Slōka 31 / श्लोक ३१
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।। ५.४६.३१।।।।
Slōka 32 / श्लोक ३२
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।
एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।। ५.४६.३२।।।।
Slōka 33 / श्लोक ३३
पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।। ५.४६.३३।।।।
Slōka 34 / श्लोक ३४
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।। ५.४६.३४।।।।
Slōka 35 / श्लोक ३५
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।। ५.४६.३५।।।।
Slōka 36 / श्लोक ३६
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।
बलं तदवशेषं च नाशयास वानरः ।। ५.४६.३६।।।।
Slōka 37 / श्लोक ३७
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।। ५.४६.३७।।।।
Slōka 38 / श्लोक ३८
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।। ५.४६.३८।।।।
Slōka 39 / श्लोक ३९
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।
समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४६.३९।।