किष्किन्धाकाण्डम्डम्
Chapter 39 / सर्गः ३९
Slōka 1 / श्लोक १
Slōka 1
इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः ।
बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥४-३९-१॥
Slōka 2 / श्लोक २
Slōka 2
यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति ।
आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः ॥४-३९-२॥
Slōka 3 / श्लोक ३
Slōka 3
चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् ।
त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप ॥४-३९-३॥
Slōka 4 / श्लोक ४
Slōka 4
एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् ।
जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम् ॥४-३९-४॥
Slōka 5 / श्लोक ५
Slōka 5
त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् ।
त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि ॥४-३९-५॥
Slōka 6 / श्लोक ६
Slōka 6
जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः ।
वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम् ॥४-३९-६॥
Slōka 7 / श्लोक ७
Slōka 7
न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः ।
पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा ॥४-३९-७॥
Slōka 8 / श्लोक ८
Slōka 8
एतस्मिन् अन्तरे च एव रजः समभिवर्तत ।
उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम् ॥४-३९-८॥
Slōka 9 / श्लोक ९
Slōka 9
दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः ।
चचाल च मही सर्वा स शैल वन कानना ॥४-३९-९॥
Slōka 10 / श्लोक १०
Slōka 10
ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः ।
कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः ॥४-३९-१०॥
Slōka 11 / श्लोक ११
Slōka 11
निमेष अंतर मात्रेण ततः तैः हरि यूथपैः ।
कोटी शत परीवारैः कामरूपिभिः आवृता ॥४-३९-११॥
Slōka 12 / श्लोक १२
Slōka 12
नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः ।
हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः ॥४-३९-१२॥
Slōka 13 / श्लोक १३
Slōka 13
तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः ।
पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः ॥४-३९-१३॥
Slōka 14 / श्लोक १४
Slōka 14
कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा ।
वीरः शतबलिः नाम वानरः प्रत्यदृश्यत ॥४-३९-१४॥
Slōka 15 / श्लोक १५
Slōka 15
ततः कांचन शैल आभः ताराया वीर्यवान् पिता ।
अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत ॥४-३९-१५॥
Slōka 16 / श्लोक १६
Slōka 16
तथा अपरेण कोटीनाम् साहस्रेण समन्वितः ।
पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः ॥४-३९-१६॥
Slōka 17 / श्लोक १७
Slōka 17
पद्म केसर संकाशः तरुण अर्क निभ आननः ।
बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः ॥४-३९-१७॥
Slōka 18 / श्लोक १८
Slōka 18
अनीकैः बहु साहस्रैः वानराणाम् समन्वितः ।
पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥४-३९-१८॥
Slōka 19 / श्लोक १९
Slōka 19
गो लांगूल महाराजो गवाक्षो भीम विक्रमः ।
वृतः कोटि सहस्रेण वानराणाम् अदृश्यत ॥४-३९-१९॥
Slōka 20 / श्लोक २०
Slōka 20
ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः ।
वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत ॥४-३९-२०॥
Slōka 21 / श्लोक २१
Slōka 21
महा अचल निभैः घोरैः पनसो नाम यूथपः ।
आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः ॥४-३९-२१॥
Slōka 22 / श्लोक २२
Slōka 22
नील अंजन चय आकारो नीलो नाम अथ यूथपः ।
अदृश्यत महाकायः कोटिभिः दशभिः वृतः ॥४-३९-२२॥
Slōka 23 / श्लोक २३
Slōka 23
ततः कांचन आभो गवयो नाम यूथपः ।
आजगाम महावीर्यः कोटिभिः पंचभिः वृतः ॥४-३९-२३॥
Slōka 24 / श्लोक २४
Slōka 24
दरीमुखः च बलवान् यूथपो अभ्याययौ तदा ।
वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः ॥४-३९-२४॥
Slōka 25 / श्लोक २५
Slōka 25
मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ ।
कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम् ॥४-३९-२५॥
Slōka 26 / श्लोक २६
Slōka 26
गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः ।
आजगाम महातेजाः सुग्रीवस्य समीपतः ॥४-३९-२६॥
Slōka 27 / श्लोक २७
Slōka 27
ऋक्ष राजो महातेजा जांबवान् नाम नामतः ।
कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः ॥४-३९-२७॥
Slōka 28 / श्लोक २८
Slōka 28
रुमणो नाम तेजस्वी विक्रान्तैः वानरैः वृतः ।
आगतो बलवान् तूर्णम् कोटि शत समावृतः ॥४-३९-२८॥
Slōka 29 / श्लोक २९
Slōka 29
ततः कोटि सहस्राणाम् सहस्रेण शतेन च ।
पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः ॥४-३९-२९॥
Slōka 30 / श्लोक ३०
Slōka 30
ततः पद्म सहस्रेण वृतः शन्कु शतेन च ।
युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः ॥४-३९-३०॥
Slōka 31 / श्लोक ३१
Slōka 31
ततः तारा द्युतिः तारो हरिः भीम पराक्रमः ।
पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत ॥४-३९-३१॥
Slōka 32 / श्लोक ३२
Slōka 32
इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत ।
एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः ॥४-३९-३२॥
Slōka 33 / श्लोक ३३
Slōka 33
ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः ।
आयुतेन वृतः चैव सहस्रेण शतेन च ॥४-३९-३३॥
Slōka 34 / श्लोक ३४
Slōka 34
ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः ।
प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली ॥४-३९-३४॥
Slōka 35 / श्लोक ३५
Slōka 35
कैलास शिखर आकारैः वानरैः भीम विक्रमैः ।
वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत ॥४-३९-३५॥
Slōka 36 / श्लोक ३६
Slōka 36
नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः ।
कोटी शतेन संप्राप्तः सहस्रेण शतेन च ॥४-३९-३६॥
Slōka 37 / श्लोक ३७
Slōka 37
ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः ।
संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः ॥४-३९-३७॥
Slōka 38 / श्लोक ३८
Slōka 38
शरभः कुमुदो वह्निः वानरो रंहः एव च ।
एते च अन्ये च बहवो वानराः काम रूपिणः ॥४-३९-३८॥
Slōka 39 / श्लोक ३९
Slōka 39
आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च ।
यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते ॥४-३९-३९॥
Slōka 40 / श्लोक ४०
Slōka 40
आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः ।
आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव ॥४-३९-४०॥
Slōka 41 / श्लोक ४१
Slōka 41
कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः ।
शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४-३९-४१॥
Slōka 42 / श्लोक ४२
Slōka 42
अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् ।
सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा ॥४-३९-४२॥
Slōka 43 / श्लोक ४३
Slōka 43
सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् ।
निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत् ॥४-३९-४३॥
Slōka 44 / श्लोक ४४
Slōka 44
यथा सुखम् पर्वत निर्झरेषुवनेषु सर्वेषु च वानरेन्द्राः ।
निवेशयित्वा विधिवत् बलानिबलम् बलज्ञः प्रतिपत्तुम् ईष्टे ॥४-३९-४४॥