उत्तरकाण्डम्डम्
Chapter 16 / सर्गः १६
Slōka 1 / श्लोक १
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।
महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ॥
Slōka 2 / श्लोक २
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ॥
Slōka 3 / श्लोक ३
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।
अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ॥
Slōka 4 / श्लोक ४
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।
अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ॥
Slōka 5 / श्लोक ५
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।
पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ॥
Slōka 6 / श्लोक ६
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।
नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ॥
Slōka 7 / श्लोक ७
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।
अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ॥
Slōka 8 / श्लोक ८
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।
वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ॥
Slōka 9 / श्लोक ९
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।
नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ॥
Slōka 10 / श्लोक १०
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।
सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ॥
Slōka 11 / श्लोक ११
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।
इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ॥
Slōka 12 / श्लोक १२
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।
को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ॥
Slōka 13 / श्लोक १३
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ॥
Slōka 14 / श्लोक १४
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।
प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ॥
Slōka 15 / श्लोक १५
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।
अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ॥
Slōka 16 / श्लोक १६
यस्माद्वानररूपं मामवज्ञाय दशानन ।
अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ॥
Slōka 17 / श्लोक १७
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।
उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ॥
Slōka 18 / श्लोक १८
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ॥
Slōka 19 / श्लोक १९
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।
व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ॥
Slōka 20 / श्लोक २०
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ॥
Slōka 21 / श्लोक २१
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ॥
Slōka 22 / श्लोक २२
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।
पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ॥
Slōka 23 / श्लोक २३
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।
तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ॥
Slōka 24 / श्लोक २४
केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ॥
Slōka 25 / श्लोक २५
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।
तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ॥
Slōka 26 / श्लोक २६
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।
चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ॥
Slōka 27 / श्लोक २७
ततो राम महादवो देवानां प्रवरो हरः ।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ॥
Slōka 28 / श्लोक २८
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ॥
Slōka 29 / श्लोक २९
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।
मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ॥
Slōka 30 / श्लोक ३०
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ॥
Slōka 31 / श्लोक ३१
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ॥
Slōka 32 / श्लोक ३२
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।
तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ॥
Slōka 33 / श्लोक ३३
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ॥
Slōka 34 / श्लोक ३४
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।
एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ॥
Slōka 35 / श्लोक ३५
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ॥
Slōka 36 / श्लोक ३६
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।
मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ॥
Slōka 37 / श्लोक ३७
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।
शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ॥
Slōka 38 / श्लोक ३८
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ॥
Slōka 39 / श्लोक ३९
देवता मानुषा यक्षा ये चान्ये जगतीतले ।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ॥
Slōka 40 / श्लोक ४०
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।
मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ॥
Slōka 41 / श्लोक ४१
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।
प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ॥
Slōka 42 / श्लोक ४२
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ॥
Slōka 43 / श्लोक ४३
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ॥
Slōka 44 / श्लोक ४४
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।
एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ॥
Slōka 45 / श्लोक ४५
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।
आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ॥
Slōka 46 / श्लोक ४६
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ॥
Slōka 47 / श्लोक ४७
एवं महेश्वरेणैव कृतनामा स रावणः ।
अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ॥
Slōka 48 / श्लोक ४८
ततो महीतले राम पर्यक्रामत रावणः ।
क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ॥
Slōka 49 / श्लोक ४९
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ॥
Slōka 50 / श्लोक ५०
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।।