सुन्दरकाण्डम्
Chapter 16 / सर्गः १६
Slōka 1 / श्लोक १
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः ।
गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत् ॥५-१६-१॥
Slōka 2 / श्लोक २
स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः ।
सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥५-१६-२॥
Slōka 3 / श्लोक ३
मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया ।
यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः ॥५-१६-३॥
Slōka 4 / श्लोक ४
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे ॥५-१६-४॥
Slōka 5 / श्लोक ५
तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् ।
राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा ॥५-१६-५॥
Slōka 6 / श्लोक ६
ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् ।
जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥५-१६-६॥
Slōka 7 / श्लोक ७
अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः ।
रावण प्रतिमो वीर्ये कबन्धः च निपातितः ॥५-१६-७॥
Slōka 8 / श्लोक ८
विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः ।
वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः ॥५-१६-८॥
Slōka 9 / श्लोक ९
चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः ॥५-१६-९॥
Slōka 10 / श्लोक १०
करः च निहतः सम्ख्ये त्रिशिराः च निपातितः ।
दूषणः च महा तेजा रामेण विदित आत्मना ॥५-१६-१०॥
Slōka 11 / श्लोक ११
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् ।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम् ॥५-१६-११॥
Slōka 12 / श्लोक १२
सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः ।
अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता ॥५-१६-१२॥
Slōka 13 / श्लोक १३
यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् ।
अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥५-१६-१३॥
Slōka 14 / श्लोक १४
राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा ।
त्रैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम् ॥५-१६-१४॥
Slōka 15 / श्लोक १५
इयम् सा धर्म शीलस्य जनकस्य महात्मनः ।
सुता मैथिलराजस्य सीता भर्तृदृढ व्रता ॥५-१६-१५॥
Slōka 16 / श्लोक १६
उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते ।
पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः ॥५-१६-१६॥
Slōka 17 / श्लोक १७
विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः ।
स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी ॥५-१६-१७॥
Slōka 18 / श्लोक १८
धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः ।
इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥५-१६-१८॥
Slōka 19 / श्लोक १९
सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता ।
अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम् ॥५-१६-१९॥
Slōka 20 / श्लोक २०
सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा ।
या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥५-१६-२०॥
Slōka 21 / श्लोक २१
सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी ।
सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥५-१६-२१॥
Slōka 22 / श्लोक २२
इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः ।
रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥५-१६-२२॥
Slōka 23 / श्लोक २३
अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति ।
राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥५-१६-२३॥
Slōka 24 / श्लोक २४
काम भोगैः परित्यक्ता हीना बन्धु जनेन च ।
धारयति आत्मनो देहम् तत् समागम कान्क्षिणी ॥५-१६-२४॥
Slōka 25 / श्लोक २५
न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् ।
एकस्थ हृदया नूनम् रामम् एव अनुपश्यति ॥५-१६-२५॥
Slōka 26 / श्लोक २६
भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि ।
एषा हि रहिता तेन शोभन अर्हा न शोभते ॥५-१६-२६॥
Slōka 27 / श्लोक २७
दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः ।
धारयति आत्मनो देहम् न दुह्खेन अवसीदति ॥५-१६-२७॥
Slōka 28 / श्लोक २८
इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् ।
सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः ॥५-१६-२८॥
Slōka 29 / श्लोक २९
क्षिति क्षमा पुष्कर सम्निभ अक्षी ।
या रक्षिता राघव लक्ष्मणाभ्याम् ।सा राक्षसीभिर् विकृत ईक्षणाभिः ।सम्रक्ष्यते सम्प्रति वृक्ष मूले ॥५-१६-२९॥
Slōka 30 / श्लोक ३०
हिम हत नलिनी इव नष्ट शोभा ।
व्यसन परम्परया निपीड्यमाना ।सह चर रहिता इव चक्र वाकी ।जनक सुता कृपणाम् दशाम् प्रपन्ना ॥५-१६-३०॥
Slōka 31 / श्लोक ३१
अस्या हि पुष्प अवनत अग्र शाखाः ।
शोकम् दृढम् वै जनयति अशोकाः ।हिम व्यपायेन च शीतरश्मिः ।रभ्युत्थितो न एक सहस्र रश्मिः ॥५-१६-३१॥
Slōka 32 / श्लोक ३२
इति एवम् अर्थम् कपिर् अन्ववेक्ष्य ।
सीता इयम् इति एव निविष्ट बुद्धिः ।सम्श्रित्य तस्मिन् निषसाद वृक्षे ।बली हरीणाम् ऋषभः तरस्वी ॥५-१६-३२॥