उत्तरकाण्डम्डम्
Chapter 18 / सर्गः १८
Slōka 1 / श्लोक १
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।
पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। ७.१८.१ ॥
Slōka 2 / श्लोक २
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।
उशीरबीजमासाद्य ददर्श स तु रावणः ।। ७.१८.२ ॥
Slōka 3 / श्लोक ३
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।
याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। ७.१८.३ ॥
Slōka 4 / श्लोक ४
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।
तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। ७.१८.४ ॥
Slōka 5 / श्लोक ५
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।
कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। ७.१८.५ ॥
Slōka 6 / श्लोक ६
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।
रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। ७.१८.६ ॥
Slōka 7 / श्लोक ७
तं च राजानमासाद्य रावणो राक्षसाधिपः ।
प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। ७.१८.७ ॥
Slōka 8 / श्लोक ८
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।
अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। ७.१८.८ ॥
Slōka 9 / श्लोक ९
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।
धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। ७.१८.९ ॥
Slōka 10 / श्लोक १०
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।
भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। ७.१८.१० ॥
Slōka 11 / श्लोक ११
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।
न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। ७.१८.११ ॥
Slōka 12 / श्लोक १२
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।
कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। ७.१८.१२ ॥
Slōka 13 / श्लोक १३
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।
श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। ७.१८.१३ ॥
Slōka 14 / श्लोक १४
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।
अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। ७.१८.१४ ॥
Slōka 15 / श्लोक १५
ततः शरासनं गृह्य सायकांश्च नराधिपः ।
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। ७.१८.१५ ॥
Slōka 16 / श्लोक १६
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।
श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। ७.१८.१६ ॥
Slōka 17 / श्लोक १७
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।
। ७.१८.१७ ॥
Slōka 18 / श्लोक १८
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।
संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। ७.१८.१८ ॥
Slōka 19 / श्लोक १९
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।
विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। ७.१८.१९ ॥
Slōka 20 / श्लोक २०
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।
रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। ७.१८.२० ॥
Slōka 21 / श्लोक २१
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।
वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। ७.१८.२१ ॥
Slōka 22 / श्लोक २२
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।
ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। ७.१८.२२ ॥
Slōka 23 / श्लोक २३
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।
प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। ७.१८.२३ ॥
Slōka 24 / श्लोक २४
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। ७.१८.२४ ॥
Slōka 25 / श्लोक २५
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।
सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। ७.१८.२५ ॥
Slōka 26 / श्लोक २६
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।
पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। ७.१८.२६ ॥
Slōka 27 / श्लोक २७
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया ।
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। ७.१८.२७ ॥
Slōka 28 / श्लोक २८
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम ।
यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। ७.१८.२८ ॥
Slōka 29 / श्लोक २९
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। ७.१८.२९ ॥
Slōka 30 / श्लोक ३०
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। ७.१८.३० ॥
Slōka 31 / श्लोक ३१
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः ।
भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। ७.१८.३१ ॥
Slōka 32 / श्लोक ३२
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ७.१८.३२ ॥
Slōka 33 / श्लोक ३३
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ।
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। ७.१८.३३ ॥
Slōka 34 / श्लोक ३४
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।
हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। ७.१८.३४ ॥
Slōka 35 / श्लोक ३५
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ७.१८.३५ ॥
Slōka 36 / श्लोक ३६
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।
निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। ७.१८.३६ ।।