उत्तरकाण्डम्डम्
Chapter 91 / सर्गः ९१
Slōka 1 / श्लोक १
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। ७.९१.१ ॥
Slōka 2 / श्लोक २
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। ७.९१.२ ॥
Slōka 3 / श्लोक ३
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। ७.९१.३ ॥
Slōka 4 / श्लोक ४
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। ७.९१.४ ॥
Slōka 5 / श्लोक ५
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। ७.९१.५ ॥
Slōka 6 / श्लोक ६
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। ७.९१.६ ॥
Slōka 7 / श्लोक ७
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। ७.९१.७ ॥
Slōka 8 / श्लोक ८
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। ७.९१.८ ॥
Slōka 9 / श्लोक ९
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। ७.९१.९ ॥
Slōka 10 / श्लोक १०
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। ७.९१.१० ॥
Slōka 11 / श्लोक ११
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। ७.९१.११ ॥
Slōka 12 / श्लोक १२
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। ७.९१.१२ ॥
Slōka 13 / श्लोक १३
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। ७.९१.१३ ॥
Slōka 14 / श्लोक १४
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।तथैव तालावचरास्तथैव नटनर्तकाः ।। ७.९१.१४ ॥
Slōka 15 / श्लोक १५
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। ७.९१.१५ ॥
Slōka 16 / श्लोक १६
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।
। ७.९१.१६ ॥
Slōka 17 / श्लोक १७
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। ७.९१.१७ ॥
Slōka 18 / श्लोक १८
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। ७.९१.१८ ॥
Slōka 19 / श्लोक १९
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। ७.९१.१९ ॥
Slōka 20 / श्लोक २०
चणकानां कुलित्थानां माषाणां लवणस्य च ।
अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। ७.९१.२० ॥
Slōka 21 / श्लोक २१
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। ७.९१.२१ ॥
Slōka 22 / श्लोक २२
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। ७.९१.२२ ॥
Slōka 23 / श्लोक २३
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। ७.९१.२३ ॥
Slōka 24 / श्लोक २४
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। ७.९१.२४ ॥
Slōka 25 / श्लोक २५
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। ७.९१.२५ ॥
Slōka 26 / श्लोक २६
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। ७.९१.२६ ।।