Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 60 / सर्गः ६०

Slōka 1 / श्लोक १

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। ७.६०.१ ॥

Slōka 2 / श्लोक २

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। ७.६०.२ ॥

Slōka 3 / श्लोक ३

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। ७.६०.३ ॥

Slōka 4 / श्लोक ४

भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। ७.६०.४ ॥

Slōka 5 / श्लोक ५

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। ७.६०.५ ॥

Slōka 6 / श्लोक ६

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
प्रवेशयामास तदा तापसान्सुदुरासदान् ।। ७.६०.६ ॥

Slōka 7 / श्लोक ७

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।
प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। ७.६०.७ ॥

Slōka 8 / श्लोक ८

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। ७.६०.८ ॥

Slōka 9 / श्लोक ९

प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।
तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। ७.६०.९ ॥

Slōka 10 / श्लोक १०

उवाच च महाबाहुः सर्वानेव महामुनीन् ।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। ७.६०.१० ॥

Slōka 11 / श्लोक ११

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। ७.६०.११ ॥

Slōka 12 / श्लोक १२

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। ७.६०.१२ ॥

Slōka 13 / श्लोक १३

किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। ७.६०.१३ ॥

Slōka 14 / श्लोक १४

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। ७.६०.१४ ॥

Slōka 15 / श्लोक १५

तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। ७.६०.१५ ॥

Slōka 16 / श्लोक १६

ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। ७.६०.१६ ॥

Slōka 17 / श्लोक १७

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। ७.६०.१७ ॥

Slōka 18 / श्लोक १८

त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। ७.६०.१८ ।।